Download जगातील सर्वात शक्तिशाली गणेश स्तोत्र : GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGY MP3 Song Free

जगातील सर्वात शक्तिशाली गणेश स्तोत्र : GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGY



Track Details & Info

Song Title: जगातील सर्वात शक्तिशाली गणेश स्तोत्र : GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGY
Artist / Channel: Vision Bhakti Marathi
Audio Duration: 10:31 Min
File Size: 14.44 MB
Audio Bitrate: 192 kbps High Quality
Release Date: April 29, 2021
Total Streams: 21,352,656 views

Get the high quality MP3 of जगातील सर्वात शक्तिशाली गणेश स्तोत्र : GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGY by Vision Bhakti Marathi. The estimated download size is 14.44 MB running for 10:31 minutes with full HD sound clarity. Download this popular track for free on Android, iPhone, iPad, Windows PC, or Mac.

Looking for the official release and free audio download of जगातील सर्वात शक्तिशाली गणेश स्तोत्र : GANESH MOST POWERFUL MANTRA FOR POSITIVE ENERGY? Enjoy high-speed download links and interactive audio preview for an enhanced music experience. Check out more trending tracks by Vision Bhakti Marathi or explore popular music genres on MP3 Music Download.

Description & Lyrics

Title - Ekdant Ganesh Stotram
Singer - Shubhangi Joshi
Copyrights - Bhakti Vision Entertainment

एकदंतगणेशस्तोत्रम्

श्रीगणेशाय नमः ।

मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।

भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।

तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥

देवर्षय ऊचुः

सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् ।

अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥

अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् ।

हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥

विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।

सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥

स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया ।

तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥

त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् ।

नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७॥

त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।

सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥

ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै ।

आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९॥

तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।

अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥

ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।

सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥

तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव ।

सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२॥

सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् ।

तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥

जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।

तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥

एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।

बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।

आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६॥

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः ।

त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७॥

यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः ।

सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥

यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।

यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९॥

यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः ।

यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।

यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥

सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२॥

यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति ।

अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥

गृत्समद उवाच

एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै ।

तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥

स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै ।

जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥

एकदन्त उवाच

प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल ।

वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥

भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।

भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ।

पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८॥

गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् ।

भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥

मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।

पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३०॥

एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् ।

पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१॥

न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् ।

असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥

नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः ।

तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३॥

एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः ।

ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४॥

॥ इति श्री एकदन्तस्तोत्रं सम्पूर्णम् ॥


LIKE | COMMENT | SHARE | SUBSCRIBE